भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
लोक संगीत
कविता कोश विशेष क्यों है?
कविता कोश परिवार

तैत्तिरीयोपनिषत् / भृगुवल्ली / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्वि नावधीतमस्तु मा विद्विषावहै।
ॐ शान्तिः शान्तिः शान्तिः॥

भृगुर्वै वारुणिः। वरुणं पितरमुपससार।
अधीहि भगवो ब्रह्मेति। तस्मा एतत्प्रोवाच।
अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति।
तँ होवाच। यतो वा इमानि भूतानि जायन्ते।
येन जातानि जीवन्ति।
यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद् ब्रह्मेति।
स तपोऽतप्यत। स तपस्तप्त्वा॥१॥

इति प्रथमोऽनुवाकः॥

अन्नं ब्रह्मेति व्यजानात्। अन्नाद्ध्येव खल्विमानि
भुतानि जायन्ते। अन्नेन जातानि जीवन्ति।
अन्नं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय।
पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति।
तँ होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति।
स तपोऽतप्यत। स तपस्तप्त्वा॥१॥

इति द्वितीयोऽनुवाकः॥

प्राणो ब्रह्मेति व्यजानात्।
प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते।
प्राणेन जातानि जीवन्ति। प्राणं प्रयन्त्यभिसंविशन्तीति।
तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार।
अधीहि भगवो ब्रह्मेति। तँ होवाच।
तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति।
स तपोऽतप्यत। स तपस्तप्त्वा॥१॥

इति तृतीयोऽनुवाकः॥

मनो ब्रह्मेति व्यजानात्। मनसो ह्येव खल्विमानि
भूतानि जायन्ते। मनसा जातानि जीवन्ति।
मनः प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय।
पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति।
तँ होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति।
स तपोऽतप्यत। स तपस्तप्त्वा॥१॥

इति चतुर्थोऽनुवाकः॥

विज्ञानं ब्रह्मेति व्यजानात्।
विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते।
विज्ञानेन जातानि जीवन्ति।
विज्ञानं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय।
पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति।
तँ होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति।
स तपोऽतप्यत। स तपस्तप्त्वा॥१॥

इति पञ्चमोऽनुवाकः॥

आनन्दो ब्रह्मेति व्यजानात्।
आनन्दाध्येव खल्विमानि भूतानि जायन्ते।
आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्यभिसंविशन्तीति।
सैषा भार्गवी वारुणी विद्या। परमे व्योमन्प्रतिष्ठिता।
स य एवं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति।
महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन।
महान् कीर्त्या॥१॥

इति षष्ठोऽनुवाकः॥

अन्नं न निन्द्यात्। तद्व्रतम्। प्राणो वा अन्नम्।
शरीरमन्नादम्। प्राणे शरीरं प्रतिष्ठितम्।
शरीरे प्राणः प्रतिष्ठितः। तदेतदन्नमन्ने प्रतिष्ठितम्।
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति।
अन्नवानन्नादो भवति।
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन। महान् कीर्त्या॥१॥

इति सप्तमोऽनुवाकः॥

अन्नं न परिचक्षीत। तद्व्रतम्। आपो वा अन्नम्।
ज्योतिरन्नादम्। अप्सु ज्योतिः प्रतिष्ठितम्।
ज्योतिष्यापः प्रतिष्ठिताः। तदेतदन्नमन्ने प्रतिष्ठितम्।
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति।
अन्नवानन्नादो भवति।
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन।
महान् कीर्त्या॥१॥

इत्यष्टमोऽनुवाकः॥

अन्नं बहु कुर्वीत। तद्व्रतम्। पृथिवी वा अन्नम्।
आकाशोऽन्नादः। पृथिव्यामाकाशः प्रतिष्ठितः।
आकाशे पृथिवी प्रतिष्ठिता।
तदेतदन्नमन्ने प्रतिष्ठितम्।
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति।
अन्नवानन्नादो भवति।
महान्भवति प्रजया
पशुभिर्ब्रह्मवर्चसेन। महान्कीर्त्या॥१॥

इति नवमोऽनुवाकः॥

न कञ्चन वसतौ प्रत्याचक्षीत। तद्व्रतम्।
तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात्।
अराध्यस्मा अन्नमित्याचक्षते।
एतद्वै मुखतोऽनँ राद्धम्।
मुखतोऽस्मा अन्नँ राध्यते।
एतद्वै मध्यतोऽनँ राद्धम्।
मध्यतोऽस्मा अन्नँ राध्यते।
एदद्वा अन्ततोऽन्नँ राद्धम्।
अन्ततोऽस्मा अन्नँ राध्यते॥१॥
य एवं वेद। क्षेम इति वाचि। योगक्षेम इति प्राणापानयोः।
कर्मेति हस्तयोः। गतिरिति पादयोः। विमुक्तिरिति पायौ।
इति मानुषीः समाज्ञाः। अथ दैवीः। तृप्तिरिति वृष्टौ।
बलमिति विद्युति॥२॥

यश इति पशुषु। ज्योतिरिति नक्षत्रेषु।
प्रजातिरमृतमानन्द इत्युपस्थे। सर्वमित्याकाशे।
तत्प्रतिष्ठेत्युपासीत। प्रतिष्ठावान् भवति।
तन्मह इत्युपासीत। महान्भवति। तन्मन इत्युपासीत।
मानवान्भवति॥३॥

तन्नम इत्युपासीत। नम्यन्तेऽस्मै कामाः।
तद्ब्रह्मेत्युपासीत। ब्रह्मवान्भवति।
तद्ब्रह्मणः परिमर इत्युपासीत।
पर्येणं म्रियन्ते द्विषन्तः सपत्नाः।
परि येऽप्रिया भ्रातृव्याः।
स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः॥४॥

स य एवंवित्। अस्माल्लोकात्प्रेत्य।
एतमन्नमयमात्मानमुपसङ्क्रम्य।
एतं प्राणमयमात्मानमुपसङ्क्रम्य।
एतं मनोमयमात्मानमुपसङ्क्रम्य।
एतं विज्ञानमयमात्मानमुपसङ्क्रम्य।
एतमानन्दमयमात्मानमुपसङ्क्रम्य।
इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन्।
एतत् साम गायन्नास्ते।
हा ३ वु हा ३ वु हा ३ वु॥५॥

अहमन्नमहमन्नमहमन्नम्।
अहमन्नादो३ऽहमन्नादो३ऽअहमन्नादः।
अहँ श्लोककृदहँ श्लोककृदहँ श्लोककृत्।
अहमस्मि प्रथमजा ऋता३स्य।
पूर्वं देवेभ्योऽमृतस्य ना३भायि।
यो मा ददाति स इदेव मा३ऽऽवाः।
अहमन्नमन्नमदन्तमा३द्मि।
अहं विश्वं भुवनमभ्यभवा३म्।
सुवर्न ज्योतीः। य एवं वेद। इत्युपनिषत्॥६॥

इति दशमोऽनुवाकः॥
 
॥इति भृगुवल्ली समाप्ता॥
 
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्वि नावधीतमस्तु मा विद्विषावहै।

॥ॐ शान्तिः शान्तिः शान्तिः॥

॥हरिः ओ३म्॥