भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
लोक संगीत
कविता कोश विशेष क्यों है?
कविता कोश परिवार

नारदपरिव्राजकोपनिषत् / अष्टमोपदेशः / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

अथ हैनं भगवन्तं परमेष्ठिनं नारदः पप्रच्छ संसारतारकं प्रसन्नो ब्रूहीति।
तथेति परमेष्ठी वक्तुमुचक्रमे ओमिति ब्रह्मेति व्यष्टिसमष्टिप्रकारेण।
का व्यष्टिः का समष्टिः संहारप्रणवः सृष्टिप्रणव- श्चान्तर्बहिश्चोभयात्मकत्वात्त्रिविधो ब्रह्मप्रणवः।
अन्तःप्रणवो व्यावहारिकप्रणवः।
बाह्यप्रणव आर्षप्रणवः।
उभयात्मको विराट्प्रणवः।
संहारप्रणवो ब्रह्मप्रणव अर्धमात्राप्रणवः।
ओमितिब्रह्म।
ओमित्येकाक्षर- मन्तःप्रणवं विद्धि।
सचाष्टधा भिद्यते।
अकारोकारमकारार्धमात्रानादबिन्दुकलाशक्तिश्चेति।
तत्र चत्वार अकारश्चायुतावयवान्वित उकारः सहस्रावयवान्वितो मकारः शतावयवोपेतोऽर्धमात्रा- प्रणवोऽनन्तावयवाकारः।
सगुणो विराट्प्रणवः संहारो निर्गुणप्रणव उभयात्मकोत्पत्तिप्रणवो यथाप्लुतो विराट्प्लुतः प्लुतसंहारो विराट्प्रणवः षोडशमात्रात्मकः षट्त्रिंशत्तत्त्वातीतः।
षोडशमात्रात्मकत्वं कथमित्युच्यते।

अकारः प्रथमोकारो द्वितीया मकार- स्तृतीयार्धमात्रा चतुर्थी नादः पञ्चमी बिन्दुः षष्ठी कला सप्तमी कलातीताष्टमी शान्तिर्नवमी शान्त्यतीता दशमी उन्मन्येकादशी मनोन्मनी द्वादशी पुरी त्रयोदशी मध्यमा चतुर्दशी पश्यन्ती पञ्चदशी परा।

षोडशी पुनश्चतुःषष्टिमात्रा प्रकृति- पुरुषद्वैविध्यमासाद्याष्टाविंशत्युत्तरभेदमात्रा-

स्वरूपमासाद्य सगुणनिर्गुणत्वमुपेत्यैकोऽपि ब्रह्मप्रणवः सर्वाधारः परंज्योतिरेष सर्वेश्वरो विभुः।
सर्वदेवमयः सर्वप्रपञ्चाधारगर्भितः॥१॥

सर्वाक्षरमयः कालः सर्वागममयः शिवः।
सर्वश्रुत्युत्तमो मृग्यः सकलोपनिषन्मयः॥२॥

भूतं भव्यं भविष्यद्यत्त्रिकालोदितमव्ययम्।
तदप्योङ्कारमेवायं विद्धि मोक्षप्रदायकम्॥३॥

तमेवात्मानमित्येतद्ब्रह्मशब्देन वर्णितम्।
तदेकममृतमजरमनुभूय तथोमिति॥४॥

सशरीरं समारोप्य तन्मयत्वं तथोमिति।
त्रिशरीरं तमात्मानं परंब्रह्म विनिश्चिनु॥५॥

परंब्रह्मानुसन्दध्याद्विश्वादीनां क्रमः क्रमात्।
स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक् परम्॥६॥

ऐकत्वानन्दभोगाच्च सोऽयमात्मा चतुर्विधः।
चतुष्पाज्जागरितः स्थूलः स्थूलप्रज्ञो हि विश्वभुक्॥७॥

एकोनविंशतिमुखः साष्टाङ्गः सर्वगः प्रभु।
स्थूलभुक् चतुरात्माथ विश्वो वैश्वानरः पुमान्॥८॥

विश्वजित्प्रथमः पादः स्वप्नस्थानगतः प्रभुः।
सूक्ष्मप्रज्ञः स्वतोऽष्टाङ्ग एको नान्यः परंतप॥९॥

सूक्ष्मभुक् चतुरात्माथ तैजसो भूतराडयम्।
हिरण्यगर्भः स्थूलोऽन्तर्द्वितीयः पाद उच्यते॥१०॥

कामं कामयते यावद्यत्र सुप्तो न कञ्चन।
स्वप्नं पश्यति नैवात्र तत्सुषुप्तमपि स्फुटम्॥११॥

एकीभूतः सुषुप्तस्थः प्रज्ञानघनवान्सुखी।
नित्यानन्दमयोऽप्यात्मा सर्वजीवान्तरस्थितः॥१२॥

तथाप्यानन्दभुक् चेतोमुखः सर्वगतोऽव्ययः।
चतुरात्मेश्वरः प्राज्ञस्तृतीयः पादसंज्ञितः॥१३॥

एष सर्वेश्वरश्चैष सर्वज्ञः सूक्ष्मभावनः।
एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ॥१४॥

भूतानां त्रयमप्येतत्सर्वोपरमबाधकम्।
तत्सुषुप्तं हि यत्स्वप्नं मायामात्रं प्रकीर्तितम्॥१५॥

चतुर्थश्चतुरात्मापि सच्चिदेकरसो ह्ययम्।
तुरीयावसितत्त्वाच्च एकैकत्वनुसारतः॥१६॥

ज्ञातानुज्ञात्रननुज्ञातृविकल्पज्ञानसाधनम्।
विकल्पत्रयमत्रापि सुषुप्तं स्वप्नमान्तरम्॥१७॥

मायामात्रं विदित्वैवं सच्चिदेकरसो ह्ययम्।
विभक्तो ह्ययमादेशो न स्थूलप्रज्ञमन्वहम्॥१८॥

न सूक्ष्मप्रज्ञमत्यन्तं न प्रज्ञं न क्वचिन्मुने।
नैवाप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञमान्तरम्॥१९॥

नाप्रज्ञमपि न प्रज्ञाघनं चादृष्टमेव च।
तदलक्षणमग्राह्यं यद्व्यवहार्यमचिन्त्य- मव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्तमद्वैतं चतुर्थं मन्यन्ते स ब्रह्म प्रणवः स विज्ञेयो नापरस्तुरीयः सर्वत्र भानुवन्मुमुक्षूणामाधारः स्वयंज्योतिर्ब्रह्माकाशः सर्वदा विराजते परंब्रह्मत्वादित्युपनिषत्॥

इति अष्टमोपदेशः॥८॥