भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
लोक संगीत
कविता कोश विशेष क्यों है?
कविता कोश परिवार

नारदपरिव्राजकोपनिषत् / षष्ठोपदेशः / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज


अथ नारदः पितामहमुवाच।
भगवन् तदभ्यासवशात् भ्रमकीटन्यायवत्तदभ्यासः कथमिति।
तमाह पितामहः।
सत्यवाग्ज्ञानवैराग्याभ्यां विशिष्टदेहावशिष्टो वसेत्।
ज्ञानं शरीरं वैराग्यं जीवनं विद्धि शान्तिदान्ती नेत्रे मनोमुखं बुद्धिः कला पञ्चविंशतितत्त्वान्यवयव अवस्था पञ्चमहाभूतानि कर्म भक्तिज्ञानवैराग्यं शाखा जाग्रत्स्वप्नसुषुप्तितुरीयाश्चतुर्दशकरणानि पङ्कस्तम्भाकाराणीति।
एवमपि नावमतिपङ्कं कर्णधार इव यन्तेव गजं स्वबुद्ध्या वशीकृत्य स्वव्यतिरिक्तं सर्वं कृतकं नश्वरमिति मत्वा विरक्तः पुरुषः सर्वदा ब्रह्माहमिति व्यवहरेन्नान्यत्किञ्चिद्वेदितव्यं स्वव्यतिरेकेण।
जीवन्मुक्तो वसेत्कृतकृत्यो भवति।
न नाहं ब्रह्मेति व्यवहरेत्किन्तु ब्रह्माहमस्मीत्यजस्रं जाग्रत्स्वप्नसुषुप्तिषु।
तुरीयावस्थां प्राप्य तुरीयातीतत्वं व्रजेद्दिवा जाग्रन्नक्तं स्वप्नं सुषुप्तमर्धरात्रं गतमित्येकावस्थायां चतस्रोऽवस्थास्त्वेकैककरणाधीनानां चतुर्दशकरणानां व्यापारश्चक्षुरादीनाम्।
चक्षुषो रूपग्रहणं श्रोत्रयोः शब्दग्रहणं जिह्वाया रसास्वादनं घ्राणस्य गन्धग्रहणं वचसो वाग्व्यापारः पाणेरादानं पादयोः संचारः पायोरुत्सर्ग उपस्थस्यानन्दग्रहणं त्वचः स्पर्शग्रहणम्।
तदधीना च विषयग्रहणबुद्धिः बुद्ध्या बुद्ध्यति चित्तेन चेतयत्यहङ्कारेणाहङ्करोति।
विसृज्य जीव एतान्देहाभिमानेन जीवो भवति।
गृहाभिमानेन गृहस्थ इव शरीरे जीवः संचरति।
प्राग्दले पुण्यावृत्तिराग्नेयां निद्रालस्यौ दक्षिणायां क्रौर्यबुद्धिर्नैरृत्यां पापबुद्धिः पश्चिमे क्रीडारतिर्वायव्यां गमने बुद्धिरुत्तरे शान्तिरीशान्ये ज्ञानं कर्णिकायां वैराग्यं केसरेष्वात्मचिन्ता इत्येवं वक्त्रं ज्ञात्वा जीवदवस्थां प्रथमं जाग्रद्द्वितीयं स्वप्नं तृतीयं सुषुप्तं चतुर्थं तुरीयं चतुर्भिर्विरहितं तुरीयातीतम्।
विश्वतैजसप्राज्ञतटस्थभेदैरेक एव एको देवः साक्षी निर्गुणश्च तद्ब्रह्माहमिति व्याहरेत्।
नो चेज्जाग्रदवस्थायां जाग्रदादिचतस्रोऽवस्थाः स्वप्ने स्वप्नादिचतस्रोऽवस्थाः सुषुप्ते सुषुप्त्यादिचतस्रोऽवस्थाः तुरीये तुरीयादिचतस्रोऽवस्थाः नत्वेवं तुरीयातीतस्य निर्गुणस्य।
स्थूलसूक्ष्मकारणरूपैर्विश्वतैजसप्राज्ञेश्वरैः सर्वावस्थासु साक्षी त्वेक एवावतिष्ठते।
उत तटस्थो द्रष्टा तटस्थो न द्रष्टा द्रष्टृत्वान्न द्रष्टैव कर्तृत्वभोक्तृत्व अहङ्कारादिभिः स्पृष्टो जीवः जीवेतरो न स्पृष्टः।
जीवोऽपि न स्पृष्ट इति चेन्न।
जीवाभिमानेन क्षेत्राभिमानः।
शरीराभिमानेन जीवत्वम्।
जीवत्वं घटाकाशमहाकाशव- द्व्यवधानेऽस्ति।
व्यवधानवशादेव हंसः सोऽहमिति मन्त्रेणोच्छ्वासनिःश्वासव्यपदेशेनानुसन्धानं करोति।
एवं विज्ञाय शरीराभिमानं त्यजेन्न शरीराभिमानी भवति।

स एव ब्रह्मेत्युच्यते। त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत्॥१॥

शून्येष्वेवावकाशेषु गुहासु च वनेषु च।
नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत्॥२॥

आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च।
महाजनेषु सिद्ध्यर्थी न गच्छेद्योगवित्क्वचित्॥३॥

यथैनमवमन्यन्ते जनाः परिभवन्ति च।
तथा युक्तश्चेद्योगी सतां वर्त्म न दूषयेत्॥४॥

वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः।
यस्यैते नियता दण्डाः स त्रिदण्डी महायतिः॥५॥

विधूमे च प्रशान्ताग्नौ यस्तु माधुकरीं चरेत्।
गृहे च विप्र्मुख्यानां यतिः सर्वोत्तमः स्मृतः॥६॥

दण्डभिक्षां च यः कुर्यात्स्वधर्मे व्यसनं विना।
यस्तिष्ठति न वैराग्यं याति नीचयतिर्हि सः॥७॥

यस्मिन्गृहे विशेषेण लभेद्भिक्षां च वासनात्।
तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः॥८॥

यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम्।
पारमार्थिक विज्ञानं सुखात्मानं स्वयंप्रभम्॥९॥

परतत्त्वं विजानाति सोऽतिवर्णाश्रमी भवेत्।
वर्णाश्रमादयो देहे मायया परिकल्पिताः॥१०॥

नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा।
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत्॥११॥

यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात्।
स वर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः॥१२॥

योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान्।
सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थवेदिभिः॥१३॥

तस्मादन्यगता वर्णा आश्रमा अपि नारद।
आत्मन्यारोपिताः सर्वे भ्रान्त्या तेनात्मवेदिना॥१४॥

न विधिर्न निषेधश्च वर्ज्यावर्ज्य कल्पना।
ब्रह्मविज्ञानिनामस्ति तथा नान्यच्च नारद॥१५॥

विरज्य सर्वभूतेभ्य आविरिञ्चिपदादपि।
घृणां विपाठ्य सर्वस्मिन्पुत्रमित्रादिकेष्वपि॥१६॥

श्रद्धालुर्मुक्तिमार्गेषु वेदान्तज्ञानलिप्सया।
उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत्॥१७॥

सेवाभिः परितोष्यैनं चिरकालं समाहितः।
सदा वेदान्तवाक्यार्थं श्रुणुयात्सुसमाहितः॥१८॥

निर्ममो निरहङ्कारः सर्वसङ्गविवर्जितः।
सदा शान्त्यादियुक्तः सन्नात्मन्वात्मानमीक्षते॥१९॥

संसारदोषदृष्ट्यैव विरक्तिर्जायते सदा।
विरक्तस्य तु संसारात्संन्यासः स्यान्न संशयः॥२०॥

मुमुक्षुः परहंसाख्यः साक्षान्मोक्षैकसाधनम्।
अभ्यसेद्ब्रह्मविज्ञानं वेदान्तश्रवणादिना॥२१॥

ब्रह्मविज्ञानलाभाय परहंस समाह्वयः।
शान्तिदान्त्यादिभिः सर्वैः साधनैः सहितो भवेत्॥२२॥

वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः।
निर्भयो निर्ममो नित्यो निर्द्वन्द्वो निष्परिग्रहः॥२३॥

जीर्णकौपीनवासाः स्यान्मुण्डी नग्नोऽथवा भवेत्।
प्राज्ञो वेदान्तविद्योगी निर्ममो निरहङ्कृतिः॥२४॥

मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु।
एको ज्ञानी प्रशान्तात्मा स सन्तरति नेतरः॥२५॥

गुरूणां च हिते युक्तस्तत्र संवत्सरं वसेत्।
नियमेष्वप्रमात्तस्तु यमेषु च सदाभवेत्॥२६॥

प्राप्य चान्ते ततश्चैव ज्ञानयोगमनुत्तमम्।
अविरोधेन धर्मस्य संचरेत्पृथिवीमिमाम्॥२७॥

ततः संवत्सरस्यान्ते ज्ञानयोगमनुत्तमम्।
आश्रमत्रयमुत्सृज्य प्राप्तश्च परमाश्रमम्॥२८॥

अनुज्ञाप्य गुरूंश्चैव चरेद्धि पृथिवीमिमाम्।
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः॥२९॥

द्वाविमौ न विरज्येते विपरीतेन कर्मणा।
निरारम्भो गृहस्थश्च कार्यवांश्चैव भिक्षुकः॥३०॥

माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा च माद्यति।
तस्माद्दृष्टिविषं नारीं दूरतः परिवर्जयेत्॥३१॥

संभाषणं सह स्त्रीभिरालापः प्रेक्षणं तथा।
नृत्तं गानं सहासं च परिवादांश्च वर्जयेत्॥३२॥

न स्नानं न जपः पूजा न होमो नैव साधनम्।
नाग्निकार्यादिकार्यं च नैतस्यास्तीह नारद॥३३॥

नार्चनं पितृकार्यं च तीर्थयात्रा व्रतानि च।
धर्माधर्मादिकं नास्ति न विधिर्लौकिकी क्रिया॥३४॥

सन्त्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः।
कृमीकीटपतङ्गाश्च तथा योगी वनस्पतीन्॥३५॥

न नाशयेद्बुधो जीवन्परमार्थमतिर्यतिः।
नित्यमन्तर्मुखः स्वच्छः प्रशान्तात्मा स्वपूर्णधीः॥३६॥

अन्तःसङ्गपरित्यागी लोके विहर नारद।
नाराजके जनपदे चरत्येकचरो मुनिः॥३७॥

निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च।
चलाचलनिकेतश्च यतिर्यादृच्छिको भवेदित्युपनिषत्॥

इति षष्ठोपदेशः॥६॥