भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
लोक संगीत
कविता कोश विशेष क्यों है?
कविता कोश परिवार

रघुवंशम् / द्वादशः सर्गः / कालिदास

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

निर्विष्टविषयस्नेहः स दशान्तं उपेयिवान्।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि॥१२.१॥

तं कर्णमूलं आगत्य रामे श्रीर्नस्यतां इति।
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा॥१२.२॥

सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः।
प्रत्येकं ह्लादयां चक्रे कुल्येवोद्यानपादपान्॥१२.३॥

तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया।
दूषयां आस कैकेयी शोकोष्णैः पार्थिवाश्रुभिः॥१२.४॥

सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ।
उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ॥१२.५॥

तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियं॥१२.६॥

पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत।
पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीथ्॥१२.७॥

दधतो मङ्गलक्ष्ॐए वसानस्य च वल्कले।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः॥१२.८॥

स सीतालक्ष्मणसखः सत्याद्गुरुं अलोपयन्।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥१२.९॥

राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजं।
शरीरत्यागमात्रेण शुद्धिलाभं अमन्यत॥१२.१०॥

विप्रोषितकुमारं तद्(?) राज्यं अस्तमितेश्वरं।
रन्ध्रान्वेषणदक्षाणां द्विषां आमिषतां ययौ॥१२.११॥

अथानाथाः प्रकृतयो मातृबन्धुनिवासिनं।
मौलैरानाययां आसुर्भर्तं स्तम्भिताश्रुभिः॥१२.१२॥

श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः॥१२.१३॥

ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः।
तस्य पश्यन्सस्ॐइत्रेरुदश्रुर्वसतिद्रुमान्॥१२.१४॥

चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः।
लक्ष्म्या निमन्त्रयां चक्रे तं अनुच्छिष्टसंपदा॥१२.१५॥

स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे।
परिवेत्तारं आत्मानं मेने स्वीकरणाद्भुवः॥१२.१६॥

तं अशक्यं अपाक्रष्टुं निर्देशात्स्वर्गिणः पितुः।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते॥१२.१७॥

स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीं।
नन्दिग्रामगतस्तस्य राज्यं न्यासं इवाभुनक्॥१२.१८॥

दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः।
मातुः पापस्य शुद्ध्यर्थं प्रायश्चित्तं इवाकरोथ्॥१२.१९॥

रामोऽपि सह वैदेह्या वने वन्येन वर्तयन्।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा॥१२.२०॥

प्रभावस्तम्भितच्छायं आश्रितः स वनस्पतिं।
कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमाथ्॥१२.२१॥

ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः।
प्रियोपभोगचिह्नेषु पौरोभाग्यं इवाचरन्॥१२.२२॥

मृगमांसं ततः सीतां रक्षन्तीं आतपे धृतं।
पक्षतुण्डनखाघातैर्बबाधे वायसो बलाथ्॥१२.२२*॥

तस्मिन्नास्थदिषीकास्त्रं रामो रामावभोधितः।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः॥१२.२३॥

रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ॥१२.२४॥

प्रययावातिथेयेषु वसन्नृषिकुलेषु सः।
दक्षिणां दिशं ऋक्षेषु वार्षिकेष्विव भास्करः॥१२.२५॥

बभौ तं अनुगच्छन्ती विदेहाधिपतेः सुता।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी॥१२.२६॥

अनुसूयातिसृष्टेन पुण्यगन्धेन काननं।
सा चकाराङ्गरागेण पुष्पोच्चलित षट्पदं॥१२.२७॥

संध्याभ्रकपिषस्तत्र विराधो नाम राक्षसः।
अतिष्ठन्मार्गं आवृत्य रामस्येन्दोरिव ग्रहः॥१२.२८॥

स जहरा तयोर्मध्ये मैथिलीं लोकशोषणः।
नभोनभस्ययोर्वृष्टिं अवग्रह इवान्तरे॥१२.२९॥

तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति श्तलीं।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥१२.३०॥

पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः।
अनपोष्हस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥१२.३१॥

रावणावरजा तत्र राघवं मदनातुरा।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमं॥१२.३२॥

सा सीतासंनिधावेव तं वव्रे कथितान्वया।
अत्यारूढो हि नारीणां अकालज्ञो मओभवः॥१२.३३॥

कलत्रवानहं बाले कनीयांसं भजस्व मे।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास तां॥१२.३४॥

ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता।
साभूद्रामाश्रया भूयो नदीवोभयकूलभाक्॥१२.३५॥

संरम्भं मैथिलीहासः क्षणं स्ॐयां निनाय तां।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥१२.३६॥

फलं अस्योपहासस्य सद्यः प्राप्स्यसि पश्य मां।
मृग्यः परिभवो व्याघ्र्यां इत्यवेहि त्वया कृतं॥१२.३७॥

इत्युक्त्वा मैथिलीं भर्तुरङ्के निर्विशतीं भयाथ्।
रूपं शूर्पणखा-नाम्नः सदृशं प्रत्यपद्यत॥१२.३८॥

लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुभाषिणीं।
शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति तां॥१२.३९॥

पर्णशालां अथ क्षिप्रं विधृतासिः प्रविश्य सः।
वैरूप्यपौनरुक्त्येन भीषणां तां अयोजयथ्॥१२.४०॥

सा वक्रनखधारिण्या वेणुकर्कशपर्वया।
अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे॥१२.४१॥

प्राप्य चाशु जन्स्थानं खरादिभ्यस्तथाविधं।
रामोपक्रमं आचख्यौ रक्षःपरिभवं नवं॥१२.४२॥

मुखावयवलूणां तां नैरृता यत्पुरोदधुः।
रामाभियायिनां तेषां तदेवाभूदमङ्गलं॥१२.४३॥

उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे॥१२.४४॥

एको दाशरथी रामो यातुधानाः सहस्रशः।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः॥१२.४५॥

असज्जनेन काकुत्स्थः प्रयुक्तं अथ दूषणं।
न चक्षमे शुभाचारः स दूषणं इवात्मनः॥१२.४६॥

तं शरैः प्रतिजग्राह खरतिशिरसौ च सः।
ख्रमशस्ते पुनस्तस्य चापात्समं इवोद्ययुः॥१२.४७॥

तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः।
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः॥१२.४८॥

तस्मिन्रामशरोत्कृत्ते बले महति रक्षसां।
उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किंचन॥१२.४९॥

सा बाणवर्षिणं रामं योधयित्वा सुरद्विषां।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी॥१२.५०॥

राघवास्त्रविदीर्णानां रावणं प्रति रक्षसां।
तेषां शूर्पणखैवैका दुष्प्रत्वृत्तिहराभवथ्॥१२.५१॥

निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः।
रामेण निहतं मेने पदं दशसु मूर्धसु॥१२.५२॥

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहरा सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥१२.५३॥

तौ सीतान्वेषिणौ गृध्रं लूनपक्षं अपश्यतां।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः॥१२.५४॥

स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीं।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः॥१२.५५॥

तयोस्रावणहृतां ताभ्यां पितृव्यापत्तिशोकयोः।
पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः॥१२.५६॥

वधनिर्धूतशापस्य कबन्धस्योपदेशतः।
मुमूर्छ सख्यं रामस्य समानव्यसने हरौ॥१२.५७॥

स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयथ्॥१२.५८॥

इतस्ततश्च वैदेहीं अन्वेष्टुं भर्तृचोदिताः।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः॥१२.५९॥
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनाथ्।
मारुतिः सागरं तीर्णः संसारं इव निर्ममः॥१२.६०॥

दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता।
जानकी विषवल्लीभिः परीतेव महौषधिः॥१२.६१॥

तस्यै भर्तुरभिज्ञामं अङ्गुलीयं ददौ कपिः।
प्रत्युद्गतं इवानुष्णैस्तदानन्दाश्रुभिन्दुभिः॥१२.६२॥

निर्वाप्य प्रियसंदेशैः सीतां अक्षवधोद्धतः।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः॥१२.६३॥

प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती।
हृदयं स्वयं आयातं वैदेह्या इव मूर्तिमथ्॥१२.६४॥

स प्राप हृदयन्यस्तमणिपर्शनिमीलितः।
अपयोधरसंसर्गं प्रियालिङ्गननिर्वृतिं॥१२.६५॥

श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुं॥१२.६६॥

स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः।
न केवलं धरा-पृष्ठे व्य्ॐनि संबाधवर्तिभिः॥१२.६७॥

निर्विष्टं उदधेः कूले तं प्रपेदे विभीषणः।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिं आदिश्य चोदितः॥१२.६८॥

तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः॥१२.६९॥

स सेतुं बन्धयां आस प्लवगैर्लवणाम्भसि।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः॥१२.७०॥

तेनोत्तीर्य पथा लङ्कां रोधयां आस पिङ्गलैः।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः॥१२.७१॥

रणः प्रववृते तत्र भीमः प्लवगरक्षसां।
दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः॥१२.७२॥

पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः।
अतिशस्त्रनखन्यासः शैलरुग्ण मतङ्गजः॥१२.७३॥

अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनां।
सीतां मायेति शंसन्ती त्रिजटा समजीवयथ्॥१२.७४॥

कामं जीवति मे नाथ इति सा विजहौ शुचं।
प्राङ्मत्वा सत्यं अस्यान्तं जीवितास्मीति लज्जिता॥१२.७५॥

गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवथ्॥१२.७६॥

ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणं।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा॥१२.७७॥

स मारुतिसमानीतमहौषधिहतव्यथः।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः॥१२.७८॥

स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभं।
मेघस्येव शरत्कालो न किंचित्पर्यशेषयथ्॥१२.७९॥

क्लेशेन महता निद्रां त्याजितं रणदुर्जयं।
रावणः प्रेषयां आस युद्धायानुजं आत्मनः॥१२.७९आ॥

जघान स तदादेशात्कपीनुग्राननेकशः।
विवेश च पुरीं लङ्कां समादाय हरीश्वरं॥१२.७९भ्॥

कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः॥१२.८०॥

अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान्।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः॥१२.८१॥

इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु।
रजांसि समरोत्थानि रच्छोणितनन्दीष्विव॥१२.८२॥

निर्ययावथ पौलस्थ्यः पुनर्युद्धाय मन्दिराथ्।
अरावणं अरामं वा जगदद्येति निश्चितः॥१२.८३॥

रामं पदातिं आलोक्य लङ्केषं च वरूथिनं।
हरियुग्यं रथं तस्मै पर्जिघाय पुरंदरः॥१२.८४॥

तं आधूतद्वजपटं व्य्ॐअगङ्गोर्मिवायुभिः।
देवसूतभुजालम्बी जैत्रं अध्यास्त राघवः॥१२.८५॥

मातलिस्तस्य माहेन्द्रं आमुमोच तनुच्छदं।
यत्रोत्पलददलक्लैब्यं अस्त्राण्यापुः सुरद्विषां॥१२.८६॥

अन्योन्यदर्शनप्राप्तविक्रमावसरं चिराथ्।
रामरावणयोर्युद्धं चरितार्थं इवाभवथ्॥१२.८७॥

भुजमूर्धोरुबाहुल्यादेकोऽपि धन्दानुजः।
ददृशे सोऽयथापूर्वो मातृवंश इव स्थितः॥१२.८८॥

जेतारं लोकपालानां स्वमुखैरर्चितेश्वरं।
रामस्तुलितकैलासं अरातिं बह्वमन्यत॥१२.८९॥

तस्य स्फुरति पौलस्त्यह्सीतासंगमशंसिनि।
निचखानाधिकक्रोधः शरं सव्येतरे भुजे॥१२.९०॥

रावणस्यापि रामास्तो भित्त्वा हृदयं आशुगः।
विवेश भुवं आख्यातुं उरगेभ्य इव प्रियं॥१२.९१॥

वचसैव तयोर्वाक्यं अस्त्रं अस्त्रेण निघ्नतोः।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव॥१२.९२॥

विक्रमव्यतिहारेण अस्त्रं अस्त्रेण निघ्नतोः।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव॥१२.९३॥

कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः।
परस्परं शरव्राताः पुष्पवृष्टिं न सेहिरे॥१२.९४॥

अयःशङ्कुचितां रक्षः शतघ्नीं अथ शत्रवे।
हृतां वैवस्वतस्येव कूटशाल्मलिं अक्षिपथ्॥१२.९५॥

राघवो रथं अप्राप्तां तां आशां च सुरद्विषां।
अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखं॥१२.९६॥

अमोघं संदधे चास्मै धनुष्यकेअध्नुर्धरः।
ब्राह्मं अस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधं॥१२.९७॥

तद्व्य्ॐनि दशधा भिन्नं ददृशे दीप्तिमन्मुखं।
वपुर्महोरगस्येव करालफणमण्डलं॥१२.९८॥

तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयथ्।
स रावणशिरःपङ्क्तिं अज्ञातव्रणवेदनां॥१२.९९॥

बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः।
रराज रक्षःकायस्य कण्ठच्छेदप्रंपरा॥१२.१००॥

मरुतां पश्यतां तस्य शिरांसि पतितान्यपि।
मनो नातिविशश्वास पुनः संधानशङ्किनां॥१२.१०१॥

अथ मदगुरुपक्षैर्लोकपालद्विपानां अनुगतं अलिवृन्दैर्गण्डभित्तीर्विहाय।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात॥१२.१०२॥

यन्ता हरेः सपदि संहृतकार्मुकज्यं आपृच्छ्य राघवं अनुष्ठितदेवकार्यं।
नामाङ्करावणशराङ्कितकेतुयष्टिं ऊर्ध्वं रथं हरिसहस्रयुजं निनाय॥१२.१०३॥

रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः।
रविसुतसहितेन तेनानुयातः सस्ॐइत्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥१२.१०४॥