भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
लोक संगीत
कविता कोश विशेष क्यों है?
कविता कोश परिवार

सौन्दर्य लहरी / पृष्ठ - २ / आदि शंकराचार्य

Kavita Kosh से
Kailash Pareek (चर्चा | योगदान) द्वारा परिवर्तित 17:06, 14 अप्रैल 2015 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=आदि शंकराचार्य |अनुवादक= |संग्रह=...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूल प्रकृतिभिः
त्रयश्चत्वारिंशद् वसुदल कलाश्रत्रिवलय-
त्रिरेखाभिःसार्धंतवशरणकोणाःपरिणताः ॥११॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं ।
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभ्रृतयः ॥
यदालोकौत्सुक्यादमरललना यान्ति मनसा ।
तपोभिर्दुष्प्रापामपिगिरिशसायुज्यपदवीम् ॥१२॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं ।
तवापाङ्गालोके पतितमनुधावन्ति शतशः ॥
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया ।
हटात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥१३॥

क्षितौ षट्पञ्चाशद्द ् विसमधिकपञ्चाशदुदके ।
हुताशेद्वाषष्टीश्चतुरधिकपञ्चाशदनिले ॥
दिविद्विः षट् त्रिंशन्मनसि च चतुःषष्टिरितिये ।
मयुखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥१४॥

शरज्ज्योत्स्नां शुभ्रां शशियुत जटाजूट मकुटां ।
वर त्रासत्राण स्फटिक घुटिका पुस्तक कराम् ॥
सकृन्न त्वां नत्वा कथमिव सतां संनिदधते ।
मधु क्षीर द्राक्षा मधुरिमधुरिणा भणितयः ॥१५॥

कविन्द्राणां चेतः कमल वनबाला तपरुचिं I
भजन्ते ये सन्तः कतिचिदरुणा मेव भवतीम् II
विरिञ्चि प्रेयस्या स्तरुणतर श्रृङ्गार लहरी ।
गभीराभिर्वाग्भिर्बिदधति सतां रन्जन्ममी II१६II

सवित्रीभिर्वाचां शशिमणि शिला भङ्गरुचिभि-
र्वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयतियः ॥
स कर्ता काव्यानां भवति महतां भङ्गिसुभगै-
र्वचोभि र्वाग्देवी वदन कमला मोद मधुरैः ॥१७॥

तनुच्छाया भिस्ते तरुणतरणि श्रीधरणिभि-
र्दिवं सर्वामुर्वी मरुणि मनिमग्न्नां स्मरति यः ॥
भवन्त्यस्य त्रस्य द्वनहरिणशालीन नयनाः ।
सहोर्वश्यावश्याःकतिकतिनगीर्वाणगणिकाः ॥१८॥

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो ।
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथ कलाम् ॥
स सद्यः संक्षोभं नयति बनिता इत्यतिलघु ।
त्रिलोकी मप्याशु भ्रमयति रवीन्दु स्तनयुगाम् ॥१९॥

किरन्तीमङ्गेभ्यः किरण निकुरुम्बामृतरसं ।
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिवयः ॥
स सर्पाणाँ दर्पं शमयति शकुन्ताधिप इव ।
ज्वरप्लुष्टांदृष्ट्या सुखयतिसुधाऽऽसारसिरया ॥२०॥